|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.90. अध्यायः 090
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेन कर्णसूनोर्वृषसेनस्य वधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-90-0x(5052)(59447)
ततः किरीटि परवीरघाती
हताश्वमालोक्य नरप्रवीरः।
माद्रीसुतं नकुलं लोकमध्ये
समीक्ष्य कृष्णं भृशविक्षतं च।
समभ्यधावद्वृषसेनमाहवे
स सूतजस्य प्रमुखे स्थितस्तदा॥ 8-90-1(59448)
तमापतन्तं नरवीरमुग्रं
महाहवे बाणसहस्रधारिणम्।
अभ्यापतत्कर्णसुतो महारथं
यथा महेन्द्रं नमुचिः पुरा तथा॥ 8-90-2(59449)
तौ तत्र शूरौ रथकुञ्जरौ रणे
परस्परस्याभिमुखौ महारथौ।
ससर्जतुः शरसङ्घाननेका--
न्सम्भ्रान्तरूपौ सुभृशं तदानीम्॥ 8-90-3(59450)
ततो द्रुतं चैकशरेण पार्थं
शितेन विद्ध्वा युधि कर्णपुत्रः।
ननाद नादं सुमहानुभावो
विद्ध्वेव शक्रं नमुचिः स वीरः॥ 8-90-4(59451)
पुनः स पार्थं वृषसेन उग्रै--
र्बाणैरविद्ध्यद्भुजमूले तु सव्ये।
तथैव कृष्णं नवभिः समार्दय--
त्पुनश्च पार्थं दशभिर्जघान॥ 8-90-5(59452)
पूर्वं यथा वृषसेनप्रयुक्तै--
रभ्याहतः श्वेतहयः शरैस्तैः।
संरम्भमीषद्गमितो वधाय
कर्णात्मजस्याथ मनः प्रदध्रे॥ 8-90-6(59453)
ततः किरीटि रणमूर्ध्नि कोपात्
कृत्वा त्रिशाखां भ्रुकुटिं ललाटे।
मुमोच तूर्णं विशिखान्महात्मा
वधे धृतः कर्णसुतस्य सङ्ख्ये।
आरक्तनेत्रोऽन्तकशत्रुहन्ता
उवाच कर्णं भृशमुत्स्मयंस्तदा॥ 8-90-7(59454)
दुर्योधनं द्रौणिमुखांश्च सर्वा--
नहं रणे वृषसेनं तमुग्रम्।
सम्पश्यतः कर्ण तवाद्य सङ्ख्ये
नयामि लोकं निशितैः पृषत्कैः॥ 8-90-8(59455)
ऊनं च तावद्धि जना वदन्ति
सर्वैर्भवद्भिर्मम सूनुर्हतोऽसौ।
एको रथो मद्विहीनस्तरस्वी
अहं हनिष्ये भवतां समक्षम्॥ 8-90-9(59456)
संरक्ष्यतां रथसंस्थाः सुतोऽय--
महं हनिष्ये भवतां समक्षम्॥
पश्चाद्वधिष्ये त्वामपि सम्प्रमूढ--
महं हनिष्येऽर्जुन आजिमध्ये॥ 8-90-10(59457)
तमद्य मूलं कलहस्य सङ्ख्ये
दुर्योधनापाश्रय जातदर्पम्।
त्वामद्य हन्ताऽस्मि रणे प्रसह्य
अस्यैव हन्ता युधि भीमसेनः।
दुर्योधनस्याधमपूरुषस्य
यस्यानयादेष महान्क्षयोऽभवत्॥ 8-90-11(59458)
स एवमुक्त्वा विनिमृज्य चापं
लक्ष्यं हि कृत्वा वृषसेनमाजौ।
ससर्ज बाणान्विशिखान्महात्मा
वधाय राजन्कर्णसुतस्य सङ्ख्ये॥ 8-90-12(59459)
विव्याध चैनं दशभिः पृषत्कै--
र्मर्मस्वशङ्कं प्रहसन्किरीटी।
चिच्छेद चास्येष्वसनं भुजौ च
क्षुरैश्चतुर्भिर्निशितैः शिरश्च॥ 8-90-13(59460)
स पार्थबाणाभिहतः पपात
रथाद्विबाहुर्विशिरा धरायाम्।
सुपुष्पितो वज्रहतोऽतिमात्रो
भग्नो यथा साल इवावकृत्तः॥ 8-90-14(59461)
तं पार्थबाणाभिहतं पतन्तं
सम्प्रेक्ष्य कर्णः सुतमाशुकारी।
रथं रथेनाशु जगाम रोषा--
त्किरीटिनः पुत्रवधाभितप्तः॥ 8-90-1x1 सञ्जय उवाच। 8-90-1a1 तमायान्तमभिप्रेक्ष्य वेलोद्वृत्तमिवार्णवम्। 8-90-1b1 गर्जन्तं सुमहाकायं दुर्निवारं सुरैरपि। 8-90-1c1 अर्जुनं प्राह दाशार्हः प्रहस्य पुरुषर्षभः॥ 8-90-2a2 अर्य सरथ आयासि श्वेताश्वः शल्यसारथिः। 8-90-2b2 येन ते सह योद्धव्यं स्थिरो भव धनञ्जय॥ 8-90-3a3 पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव। 8-90-3b3 श्वेतवाजिसमायुक्तं युक्तं राधासुतेन च॥ 8-90-4a4 नानापताकाकलिलं किङ्किणीजालमालिनम्। 8-90-4b4 उह्यमानमिवाकाशो विमानं पाण्डुरैर्हयैः॥ 8-90-5a5 ध्वजं च पश्य कर्णस्य नागकक्षं महात्मनः। 8-90-5b5 आखण्डलधनुःप्रख्यमुल्लिखन्तमिवाम्बरम्॥ 8-90-6a6 पश्य कर्णं समायान्तं धार्तराष्ट्रप्रियैषिणम्। 8-90-6b6 शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम्॥ 8-90-7a7 एष मद्रेश्वरो राजा रथाग्रे पर्यवस्थितः। 8-90-7b7 नियच्छति हयानस्य राधेयस्यामितौजसः॥ 8-90-8a8 शृणु दुन्दुभिनिर्घोषं शङ्खशब्दं च दारुणम्। 8-90-8b8 सिंहनादांश्च विविधाञ्शृणु पाण़्डव सर्वतः॥ 8-90-9a9 अन्तर्धाय महाशब्दान्कर्णेनामिततेजसा। 8-90-9b9 दोधूयमानस्य भृशं धनुषः शृणु निःस्वनम्॥ 8-90-10a10 एते दीर्यन्ति सगणाः पाञ्चालानां महारथाः। 8-90-10b10 दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने॥ 8-90-11a11 सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम्। 8-90-11b11 न हि कर्णशरानन्यः सोढुमुत्सहते नरः॥ 8-90-12a12 सदेवासुरगन्धर्वांस्त्रीँल्लोकान्सचराचरान्। 8-90-12b12 त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम॥ 8-90-13a13 भीममुग्रं महात्मानं त्र्यक्षं शर्वं कपर्दिनम्। 8-90-13b13 न शक्ता द्रष्टुमीशानं किं पुनर्योधितुं प्रभुम्॥ 8-90-14a14 त्वया साक्षान्महादेवः सर्वभूतशिवः शिवः। 8-90-14b14 युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव॥ 8-90-15a15 तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः। 8-90-15b15 जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा॥ 8-90-16a16 श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि॥ 8-90-16b17x अर्जुन उवाच। 8-90-17a17 ध्रुव एव जयः कृष्ण मम नास्त्यत्र संशयः। 8-90-17b17 सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन॥ 8-90-18a18 चोदयाश्वान्हृषीकेश रथं मम महारथ। 8-90-18b18 नाहत्वा समरे कर्णं निवर्तिष्यति फल्गुनः॥ 8-90-19a19 अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम्। 8-90-19b19 मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः॥ 8-90-20a20 उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम्। 8-90-20b20 यज्जनाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति॥ 8-90-21a21 एवं ब्रुवंस्तदा पार्थः कृष्णमक्लिष्टकारिणम्। 8-90-21b21 प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा॥ 8-90-22a22 पुनरप्याह तेजस्वी पार्थः कृष्णमरिन्दम। 8-90-22b22 चोदयाश्वान्हृषीकेश कालोऽयमतिवर्तते॥ 8-90-23a23 एवमुक्तस्तदा तेन पाण़्डवेन महात्मना। 8-90-23b23 जयेन सम्पूज्य स पाण्डवं तदा 8-90-23c23 प्रचोदयामास हयान्मनोजवान्॥ 8-90-24a24 स पाण्डुपुत्रस्य रथो मनोजवः 8-90-24b24 क्षणेन कर्णस्य रथाग्रगोऽभवत्॥ ॥ 8-90-15(59462)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे नवतितमोऽध्यायः*॥ 90 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-90-9 ऊनमिति। अभिमन्युं साधनैरिति शेषः। साधनैरूनं वदन्तीत्यन्वयः॥ 8-90-90 नवतितमोऽध्यायः॥ 8-90-* एतदनन्तरं झ.पुस्तके एकोऽध्यायोऽधिको दृश्यते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|